Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Praudha Manorama (प्रौढमनोरमा पञ्चसन्धिप्रकरणम्)

212.00

Author Dwarika Prasad Dwivedi
Publisher Chaukhamba Surbharti Prakashan
Language Sanskrit Taxt and Hindi Translation
Edition 2023
ISBN -
Pages 260
Cover Paper Back
Size 14 x 2 x 22 (l x w x h
Weight
Item Code CSP0679
Other Dispatched in 3 days

 

10 in stock (can be backordered)

Compare

Description

प्रौढमनोरमा (Praudha Manorama)

देवैराराधितां देवीं नित्यं प्रौढमनोरमाम् । राजराजेश्वरीं वन्दे सर्वाभीष्टार्थसिद्धये ।।

विपश्चित्प्रवराः !
आधिभौतिकाध्यात्मिकाधिदैविकजालाकुलेऽस्मिन्संसारेऽनेकजन्मार्जितपुण्यप्रतापैः भारतवर्षे मनुष्यशरीरं प्राप्नुवन्ति प्राणिनः। अत्रोत्रत्यवनती द्विविधे- ऐहलौकिक्यौ, पारलौकिक्यौ च। द्विविधे ते धर्माधर्मनिमित्तके, तत्राधिभौतिकाध्यात्मिकाधिदैविकसकल- दुःखापहारकस्य कर्मोपासनाजीवब्रह्मक्यज्ञानेनाभ्युदयनिःश्रेयससिद्धिहेतुकस्य धर्मस्य साधनभूता वेदा इति। तदुक्तं मनुना-
वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥

अयं भावः – समस्तऋग्यजुःसामाथर्वलक्षणः विध्यर्थवादमन्त्रस्वरूपो वेदः धर्मे प्रमाणम्। अर्थवादानामपि विध्येकवाक्यत्वेन स्तावकतया धर्मे प्रामाण्यात्। वेदविदां स्मृतिर्धमें प्रमाणम्। वेदविदामिति विशेषणदानेन वेदमूलत्वेन स्मृत्यादीनां प्रामाण्यमिति तात्पर्यम्। वेदविदां शीलं = ब्रह्मण्यतादिरूपम्। अथवा शीलं = रागद्वेषपरित्यागः धर्मे प्रमाणम्। वैकल्पिके धार्मिकाणामाचारः आत्मतुष्टिश्च प्रमाणम्। श्लोकवार्तिकेऽपि-
श्रेयः साधनता होषां नित्यं वेदात्प्रतीयते ।  ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः ॥

कथितश्चाऽन्यत्र-
प्रत्यक्षेणानुमित्या वा यस्तूपायो न विद्यते । एतं विदन्ति वेदेन तस्माद्वेदस्य वेदता ।।
यथाऽऽह सायणः – इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो वेदयति स वेदः। अतिगभीरस्य वेदस्यार्थमवबोधयितुं शिक्षादीनि षडङ्गानि प्रवृत्तानि, अत एव तेषामपरविद्यारूपत्वं मुण्डकोपनिषदि कथितम्। तथाहि- ‘द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति – परा चैवापरा च। तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः, शिक्षा, कल्पो, व्याकरणं, निरुक्तं, छन्दो ज्योतिष- मिति। अथ परा यया तदक्षरमधिगम्यते (मुण्डक० १.१.४)। उपनिषद्वेद्याक्षरविषयं हि विज्ञानमिह परा विद्येति प्राधान्येन विवक्षितं नोपनि- षच्छब्दराशिरिति तात्पर्य पराविद्यायाः। तद्यथा पाणिनिशिक्षायाम् –

छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते ।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ।।
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते ।।

छन्दः- लौकिकान् वैदिकांश्च वाक्यविशेषान् पादविरामादिव्यवस्थापनेन छन्द- यति = नियमयतीति छन्दः पिङ्गलादिमहर्षिप्रणीतो ग्रन्थविशेषः।
कल्पः – कल्प्यते = समर्थ्यते यागप्रयोगोऽत्रेति कल्पः, अर्थात् केषां मन्त्राणां कुत्र प्रयोगः इति प्रयोगक्रमकल्पक आपस्तम्बादिमुनिप्रणीतो ग्रन्थविशेषः।
ज्योतिषम् – सूर्यचन्द्रादिज्योतिर्द्वारा तत्तद् वेदशास्त्रादिविहितकर्मानुष्ठानकाल- निर्णयेष्टाऽनिष्टफलप्रदर्शकाः ग्रन्यविशेषाः ।
निरुक्तम्-अर्थज्ञाने नैरपेक्ष्येण परसमूहो यत्रोक्तं तन्निरुक्तम् ।
शिक्षा-तत्तद्वर्णानां स्थानप्रयत्नोच्चारणादिक्रमप्रदर्शको पाणिन्यादिकृतो ग्रन्थविशेषः।

Reviews

There are no reviews yet.

Be the first to review “Praudha Manorama (प्रौढमनोरमा पञ्चसन्धिप्रकरणम्)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×