Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Sanskrit Sahitya Itihas (संस्कृत साहित्येतिहासः)

157.00

Author Acharya Lokmani Dahal
Publisher Chaukhambha Krishnadas Academy
Language Sanskrit
Edition 2019
ISBN 978-81-218-0028-5
Pages 469
Cover Paper Back
Size 14 x 4 x 22 (l x w x h)
Weight
Item Code CSSO0636
Other Dispatched in 1-3 days

 

9 in stock (can be backordered)

Compare

Description

संस्कृत साहित्येतिहासः (Sanskrit Sahitya Itihas) विदितचरमेव सर्वेषां यत्संस्कृतसाहित्यार्णवोऽगाधः सुनाविकैरप्यपार गम्यः। अद्यावधिप्रणीता इतिहासग्रन्था नैतस्य सर्वाङ्गीणं स्वरूपमुपस्थाप- यितुं समर्थाः। अस्य कतिपये ग्रन्थाः कालेन कवलिताः, कतिपये तु सन्तोऽपि नैवास्माकं दृष्टिपथमागताः। ये हि दृष्टास्तेष्वपि सन्ति कतिपये खण्डिताश्च। तेन न कोऽप्यस्यापि पारदृश्वा। तत्र तत्र ग्रन्थेषु यदेव ज्ञातं प्रणेत्रा तत्तदेवो- पन्यस्तम्। सम्प्रति हि लभ्यन्ते पञ्चाशदधिका लघुकाया बृहत्कायाच्च अस्येति- हाससम्बद्धग्रन्थाः। प्रस्तुतग्रन्यस्तु तेषामपि सारसङ्क्षेप एव।

प्रन्यानामध्ययनादेतज्ज्ञायते यत्सन्ति मूलतश्चत्वारो वेदा येषाञ्च प्रत्येकं शाखाविस्तरः। ऋग्वेदो हि एकविंशतिशाखः स्मृतः। एवमेव यजुर्वेदस्य प्रथमतः शुक्लकृष्णभेदौ तत्रापि शुक्लस्य पञ्चदशशाखाः कृष्णस्य षडशीतिः। सामवेदः सहस्रवर्मा स्मृतः। अथर्ववेदश्च नवधा परिकीर्तितः, इत्थं हि वेदतरु- मूलत एव (२१+१०१ + १०००+१=११३१) एकत्रिंशदुत्तरशताधिक- सहस्रशाखः स्मृतः। तत्रापि प्रतिशाखं सन्ति ब्राह्मणा आरण्यकानि उपनिष- दश्च। चत्वार उपवेदाः इति वैदिकसाहित्यमेव सङ्ख्यातुं न हि कश्वि- ज्जानाति। ततश्च स्मर्यन्ते षड् वेदाङ्गानि शिक्षा कल्पो व्याकरण निरुक्तं छन्दो ज्योतिषमिति। सहस्राधिकशाखस्य वेदस्य प्रतिशाखं शिक्षाग्रन्थाः, कल्पग्रन्याः, व्याकरणग्रन्याः, निरुक्तानि, छन्दोग्रन्थाः, ज्योतिषमिति, तेषां गणनैव न सम्भवति। एवमेव सन्त्यनेकानि वेदस्योपाङ्गानि धर्मशास्त्र-पुराण- इतिहास-दर्शनादीनि। धर्मशास्त्रं स्मृतिः। स्मृतयो मूलतोऽष्टादश स्मृताः। तावत्य एवानुस्मृतयः। पुराणानि मूलतोऽष्टादश, तावन्त्येवोपपुराणानि अनुपुराणानि च। दर्शनं स्वयमेव विविधशाखं स्मर्यंते। रामायणमहा- भारतेऽपि काव्यस्वरूपेऽपि वेदस्यैव व्याख्यातृणी। लौकिकं काव्यमपि प्रथमतो द्विविधं श्रव्यं दृश्यश्च। श्रव्यं त्रिविधं पद्यमय-गद्यमय-चम्पूभेदात्। तानि च विविश्वरूपाणि महाकाव्यखण्डकाव्यमुक्तकादिभेदात्। तेषामपि चरित-ऐति- हासिक देव-श्लेष-यमकादिभेदाद् बहूनि रूपाणि। तथैव कथाऽऽस्यायिका- प्रभृतयो भेदा अपि। कथाऽपि नीत्युपदेशभेदाद् द्विविधा।

Reviews

There are no reviews yet.

Be the first to review “Sanskrit Sahitya Itihas (संस्कृत साहित्येतिहासः)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×