Shakta Pramod (शाक्तप्रमोद)
Original price was: ₹700.00.₹630.00Current price is: ₹630.00.
Author | Shri Raja Devnandan Singh |
Publisher | Khemraj SriKrishna Das Prakashan, Bombay |
Language | Sanskrit |
Edition | 2023 |
ISBN | - |
Pages | 582 |
Cover | Hard Cover |
Size | 14 x 3 x 23 (l x w x h) |
Weight | |
Item Code | KH0058 |
Other | Dispatched in 1-3 days |
4 in stock (can be backordered)
CompareDescription
शाक्तप्रमोद (Shakta Pramod) अद्य खलु सकलभूतलनिवासिनामार्यजनानां पुरतः किञ्चिद्विज्ञापनं लिखितुमस्मदीयं मनोऽतितरामानन्दमाधत्ते-प्रवर्तयति च सत्परि- श्रमाभिनन्दनाय । तत्किमपि कथमपि वर्ण्यमानममुं प्रार्थनाञ्जलि निजसपर्याय समभिनन्दन्तु सभ्यजनाः। भोः ! विद्वांसो महाप्राज्ञाः ! संप्रति ह्यस्मिन्प्रकृष्टप्रादुर्भावे आर्यदेशे प्राचीनमहानुभावमहर्षिजनानुष्ठितानुष्ठापितसनातनवेदधर्म-प्रथाऽनेकधा प्रवितता एकशैलसमुत्पन्ननानानदीवत्समन्ततो व्याप्त-बहुलप्रदेशा अंते च समुद्रमिव परमेष्टमाप्तव्यं प्रतिलंभते इति हि विचारान्ते निखिलविचक्षणजनानां प्रत्यक्षं स्यात्।
तत्र च प्रकृतमनुरुन्ध्महि-अस्मिन्भारतवर्षे प्राधान्येन वैदिको धर्म एवासीत्। ततश्च कियता समतीतेन समयेन नानाविधाः जैनबौद्धादयः धर्मा वैदिकधर्मप्रचारविदूषका नष्टदृष्टिभिरयथातत्त्वदर्शिभि केवलं दयामुखरैर्महानिर्द्दयैवं स्तुतोर्मनुष्यापस दैरादृताः कालदोषेण प्रसिद्धिमाययुः येषां दुष्टधर्माणां शुष्कविरक्तिवादनिरन्तरघोषणेन जातबुद्धि-संस्काराणां भारतीयप्रजानां दृढसाहसिकमनोबन्धनानि शिथिली-कृतानि-येन च मनोबन्धशिथिलीकरणेन प्रतिविचारं औदासीन्यमेव प्रायो भारतीयजनानामाश्रयप्रासादो बोभवीति-अतएव च विप्रकृष्ट-निकृष्ट जनैर्गारुडैर्महाविषाः पन्नगा इव क्रीडोपकरणीकृताः खल भारतीयाः। अयं महाननर्थः, जैनबौद्धादिमहापाषण्डधर्मकृतः इति सुतरां भारतीया अनुमिन्वन्तु।
वैदिकधर्मश्च त्रेधा-सात्त्विको राजसस्तामसश्चेति। स त्रिविधोऽपि द्विविधः-आभ्यन्तरो बाह्यश्च। आभ्यन्तरश्च स्वमनोव्यापाररूपः। बाह्यः इतरेन्द्रियवृत्तिकृतव्यापाररूपः। तत्र लोकवृत्तिः बाह्यधमें आभ्यन्तरधर्मे च परिणिष्ठितास्ति। तच्चेत्थं सकल जगदुत्पादकस्य निजमहानन्दैकमूर्तेः सच्चिदानन्दरूपस्य अनिर्वचनीयाचित्यगुणगणस्य अप्रच्युतिस्वभावस्य परमात्मनो निजाभिन्नापरिमेयशक्तिविरचितनिखिल ब्रह्माण्डको टिपरम्परा सृष्टिस्थितिसंहारकारिणी सत्त्वरजस्तमो- गुणजननी भगवती योगमाया आदिशक्तिः दृश्यज्ञेयादिस्वरूपम् इदं जगत् समुत्पाद्य तस्मिन्निजलीलया नानाविधचरित्राणि विधाय भगवति सर्वेश्वरे सदा रमते।
Reviews
There are no reviews yet.