Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.

Shrutbodh (श्रुतबोधः)

15.00

Author Pt. Sri Kanak Lal Thakur
Publisher Chaukhambha Sanskrit Series Office
Language Sanskrit
Edition -
ISBN -
Pages 39
Cover Paper Back
Size 14 x 4 x 22 (l x w x h)
Weight
Item Code CSSO0611
Other Dispatched in 1-3 days

10 in stock (can be backordered)

Compare

Description

श्रुतबोधः (Shrutbodh) शब्द‌शाखं मुखं, ज्योतिषक्षुः, कल्पः करौ श्रुतेः। शिक्षा नासा, निरुक्तं च श्रोत्रं, छन्दः पदद्वयम्॥ अङ्गानामिह सर्वेषा-माधारः पदमेव हि। जनोऽभिलषितं स्थानं यह विना गन्तुमक्षमः॥ नैवं शास्त्रान्तरं गन्तुं छन्दोज्ञानं विनाऽर्हति। प्राधान्यं छन्दसस्तेन वेदाङ्गेष्वखिलेष्वपि॥ शिक्ष्यते गमनं चादौ बालैरन्यदनन्तरम्। शिक्ष्यं पूर्वमिदं तद्वच्छन्दः परमतः परम्॥ सन्ति पिङ्गलसृत्राद्यास्तदुग्रन्था बहवः परम्। पटूनां तन्त्र सन्देहो बहूनामथ का कथा॥ तस्मादस्मद्धितायैव काव्य-कानन-केसरी। कालिदासः कृतिश्रेष्ठः कृतवान् ग्रन्थमुत्तमम्॥ छन्दसां सारमादाय श्रुतबोधमिमं शुभम्। वस्तुतो दृश्यतेऽत्रैव यथा नाम तथा गुणः॥ यद्यप्यस्य कृताष्टीका बहुभिः कोविदैः परम्। बहुस्थानेषु सञ्जातो बहूनामपि सम्भ्रमः॥ स यथा’ऽऽख्यानकी’ त्यादौ प्राज्ञैः प्रत्यक्षमीक्ष्यताम्। अतस्तन्मार्जनायैव गुप्तोपाख्येन धीमता ॥ श्रीहरिकृष्णदासेन प्रार्थितोऽहं सुहृन्मुदे। कृतबान् बालबोधाय टीकामस्याशुबोधिनीम्॥ क्रमादन्नान्वयो, व्याख्या, समासस्तदनन्तरम्। भाषार्थः, पैङ्गलादीनां लक्षणं सार्थमप्यथ॥ उदाहरणमप्यन्यत् सार्थमेव सुरक्षितम्। अन्ते गणितभागश्च प्रश्नाश्च विविधास्तथा ॥ एतैरुपकृतः कश्चिज्जनो यदि भविष्यति। भविष्यति तदामेऽपि सफलोऽयं परिश्रमः॥ याऽत्र दृग्दोषसञ्जाता या च मुद्रणयन्त्रजा। त्रुटिर्मानवधर्मत्वात् संशोध्या सा महाशयैः॥ इति ज्ञानदृशो विज्ञा विज्ञाप्यन्ते विवेकिनः। यौगमा-ग्रामवास्तव्य-श्रीसीतारामशर्मणा॥

Reviews

There are no reviews yet.

Be the first to review “Shrutbodh (श्रुतबोधः)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×