Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Vaidik Tattav Vimarsh (वैदिक तत्त्व विमर्शः)

170.00

Author Aacharya Bhagwatsharn Shukla
Publisher Sharda Sanskrit Sansthan
Language Sanskrit & Hindi
Edition 1st edition, 2012
ISBN 978-93-81999-32-5
Pages 218
Cover Paper Back
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code SSS0086
Other SSS0086

 

10 in stock (can be backordered)

Compare

Description

वैदिक तत्त्व विमर्शः (Vaidik Tattav Vimarsh) “वेदोऽखिलो धर्ममूलम्” इति मनुस्मृत्यनुसारेण वेदः सर्वेषामपि मानवीयमूल्यानां प्रमुखं स्रोतो विद्यते। मानवीयमूल्येषु प्रमुखं तत्त्वमस्ति सर्वप्राणिषु समत्वबुद्धिः। अत एव गीतायामपि प्रतिपादितं “समत्वं योगमुच्यते”। “सर्वज्ञानमयो हि सः” इति कथनात् वेदः सर्वज्ञानमयोऽपि विद्यते। यतोहि वेदे सर्वेषामपि ज्ञानानां विद्यानां बीजं तत्र निहितं विद्यते।

वेदः सर्वविद्यानां ज्ञानानां च रत्नानां सिन्धुरिवास्ति। यथा सिन्धौ विविधरत्नानां सत्त्वात् स रत्नाकरः कथ्यते तथैव विद्यादिरत्नानामयं निधिः सागर एव। अत एव गवेषका आध्यत्मिकविद्यानां भौतिकविद्यानां च मूलतत्त्वानि वेदे एव अन्वेषयन्ति। भारतीयानां गर्भाधानतो मृत्युपर्यन्तं ये संस्कारा भवन्ति ते वेदेनैव विधीयन्ते। तथैवाखिलदर्शनानां भवन्तु तानि नास्तिकान्यास्तिकानि वा दार्शनिकानि तत्रैव स्वसिद्धान्तपुष्टयै प्रमाणं दर्शयन्ति। वेदेन प्रभाविता आधुनिकचिन्तकाः पाश्चात्या मोक्षमूलर (मैक्समूलर) प्रभृतयाः, पौर्वात्याः दयानन्दप्रभृतयश्च वेदमेव सर्वज्ञानसाधनं मन्यन्तेस्म। अद्यापि तदनुयायिनं वेदं सर्वस्वं मन्यन्ते। यथा रत्नाकारात् लक्षाधिकरत्नग्रहणेऽपि रत्नाकरो न रिक्तो भवति। तथैव वेदा अपि तेभ्यो विविधविद्यास्स्रोतसां हरणेऽपि तद्भिन्नानि विद्यास्स्रोतांसि न च सन्ति इति न वक्तव्यं भवति।

यथा स्वसामर्थ्यानुसारं जनाः सागरजलपरिमाणं विचारयन्ति आकाशसीमानं चिन्तयन्ति न तावदैकमत्यं तत्र सीमनिर्धारणे भवन्ति। ततोऽधिकस्य सीम्नस्तस्य सत्त्वात्। तथैव वेदादपि विविधविद्यारत्नानामादानेऽपि रत्नानां तत्रत्यः कोऽवधिरिति निर्धारणे ते समर्था न भवन्ति। यथाशक्त्येव प्रयत्ना, विधातव्याः इति धियैव अधुना यावद् वेदमादाय विविधग्रन्थाः रत्नरूपाः विरचिताः विरचयन्तश्च सन्ति भविष्यत्यपि काले विरचिता भविष्यन्ति इति मन्ये। अयमपि जनो व्याकरणाध्ययनशीलो रक्षार्थं वेदानामध्येयं व्याकरणमिति महाभाष्यस्थव्याकरणाध्यनप्रयोजनवाक्यप्रेरितो वेदाध्ययनकर्मणि प्रवृतः। ततश्च कानिचित् रत्नानि प्राप्नोत्। तानि रत्नानि ग्रन्थेऽस्मिन् संस्थाप्य जिज्ञासूनामध्येतॄणां पुरतः समवलोकनाय प्रकाश्यन्ते।

Reviews

There are no reviews yet.

Be the first to review “Vaidik Tattav Vimarsh (वैदिक तत्त्व विमर्शः)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×