Vaiyakaran Siddhant Vivriti (वैयाकारणसिद्धानतविवृति: शब्दशास्त्रीयनिबन्धनिधि:)
₹200.00
Author | Aacharya Bhagwatsharn Shukla |
Publisher | Sharda Sanskrit Sansthan |
Language | Sanskrit & Sanskrit |
Edition | 1st edition, 2013 |
ISBN | 978-93-81999-29-5 |
Pages | 133 |
Cover | Paper Back |
Size | 14 x 1 x 22 (l x w x h) |
Weight | |
Item Code | SSS0087 |
Other | Dispatched in 1-3 days |
10 in stock (can be backordered)
CompareDescription
वैयाकारणसिद्धानतविवृति: (Vaiyakaran Siddhant Vivriti) शब्दशास्त्रमिदं वाङ्मलानां चिकीत्सकं मोक्षस्य सरलो मार्गो विद्यते। वेदार्थपरिज्ञानाय छन्दः कल्पादीनि षडङ्खानि सन्ति। तत्र षट्स्वपि अङ्गेषु प्राधान्यं व्याकरणशास्त्रस्य विद्यते। अत एव व्याकरणाध्ययनप्रयोजनकथनप्रसङ्गे महर्षिपतञ्जलिः “रक्षार्थ वेदानामध्येयं व्याकरणम्” इत्याह। व्याकरणशास्त्रमिदं सर्वविद्योपकारकमपि विद्यते। अतएवोक्तं “सर्व पारिषदं हीदं शास्त्रम्” इति। पदमञ्जर्यां हरदत्तोऽपि प्रतिपादयति-
“उपासनीयं यत्नेन शास्त्रं व्याकरणं महत्।
प्रदीपभूतं सर्वासां विद्यानां यदवस्थितम्।।” (पदमञ्जरी काशिका प्रथम पादे)
व्याकरणशास्त्रज्ञो हि भवति सकलशास्त्रगहनविपिनविचरणकेशरी। सारल्येन भवति प्रवेशस्तस्य सकलशास्त्रेषु। अत एवेदं सर्वविद्यानां प्रदीपभूतं प्रतिपादितमस्ति। एतस्य विविधार्षग्रन्थेषु पाणिनीयाष्टाध्यायीमहाभाष्यवाक्यपदीयप्रभृतिषु विविधा विषया विवेचिताः सन्ति। येषां विषयेऽन्ये दार्शनिकाः मीमांसान्यायशास्त्रविदो बहूनि तर्काणि स्वमतपोषणाय काञ्चित् वैयाकरणसिद्धान्तान् दोषयितुं च विहितवन्तः। यत्र च यद्यपि भट्टोजिदीक्षित नागेशप्रभृतिशब्दिकशिरोमणिभिरपि विचारः कृतोऽस्ति। तथापि तत्राधुनिकानामपि ये विचाराः पश्चादागतास्तत्र न कश्चन विचारो विहितः। अत्रस्तत्रविविधविषयानादाय निबन्धव्याजेन विचाराः प्रतिपादिताः सन्ति ग्रन्थेऽस्मिन् तत्रादौ किं व्याकरणसूत्राणामन्वाख्यानव्यतिरिक्तं किञ्चिदपरमपि लोकव्यवहारप्रसिद्धं प्रयोजनं भवितुमर्हति न वेति विषये नूतना विचारसरणि रात्रिता। यदेतानि “स्थानेऽन्तरतमः” अलोऽन्त्यस्य इत्यादिसूत्राणि लोकव्यवहारायापि उपयुज्यन्ते। यथा योग्ये पदे स एव नियुज्यते यः तस्य स्थानस्य कृते सदृशतमो भवेत् यथा न्यायशास्त्राध्यापकपदे न्यायशास्त्रेषु कृतभूरिपरिश्रमः एवोपयुज्यते न हि तद्भिन्नशास्त्र परिशीलकः।
एतत् सर्वमनेन लोकेऽपि ज्ञातुं शक्यते। व्याकरणदर्शने ब्रह्मणः सम्यग् विचारः एकत्र दुर्लभः। स चात्र सप्रमाणं प्रतिपादितः। महाभाष्येऽपि स्वमतपुष्ट्यै विविधा आदर्शा लोकन्यायमाध्यमेन विचारिताः यथा ‘नमुने’ 8.2.3. इत्यत्र महाभाष्ये “अथवा द्विगता अपि हेतवो भवन्ति। आम्म्राश्च सिक्ताः पितरश्च प्रीणिताः भवन्ति।”। अनेन ज्ञायते यल्लोके एवम्भूता अपि क्रिया भवन्ति यस्भिः कार्यद्वयं सम्पद्यते। अपि चैतदपि सूच्यते यत् धर्माशास्त्रानुसारेण गृहाद् बहिरुपवनादिषु तिलतर्पणं कुर्यात्। उक्तं चाचारमयूखे-
“सप्तम्यां, भानुवासरे च गृहे, जन्मदिने तथा।
भृत्यपुत्रकलत्रार्थी न कुर्यात् तिलतर्पणम्।।”
Reviews
There are no reviews yet.