Kumar Sambhawam 1-2 Sarg (कुमारसम्भवम् 1-2 सर्ग)
₹59.00
Author | Dr. Dhananjay Kumar Tripathi |
Publisher | Bharatiya Vidya Sansthan |
Language | Sanskrit & Hindi |
Edition | 1st Edition |
ISBN | - |
Pages | 152 |
Cover | Paper Back |
Size | 12 x 2 x 18 (l x w x h) |
Weight | |
Item Code | BVS0176 |
Other | Dispatched in 1-3 days |
10 in stock (can be backordered)
CompareDescription
कुमारसम्भवम् 1-2 सर्ग (Kumar Sambhawam 1-2 Sarg) कालिदासकृतित्वेन सह एकचत्त्वारिशद् रचनाः विख्याताः। इत्थं प्रतीयते यद् यस्याः महत्त्वपूर्णया रचनायाः कविः सन्देहास्पदोऽभूत्, सा रचना कालिदासेन सह योजिता। अतः अप्रामाणिकी रचना विहाय कालिदासस्य सप्त एव कृतयः। तत्र त्रीणि नाटकानि, द्वे महाकाव्ये, द्वे गीतिकाव्ये च। तद्यथा-
(क) नाटकम् – (१) मालविकाग्निमित्रम्, (२) विक्रमोर्वशीयम्, (३) अभिज्ञानशाकुन्तलम।
(ख) महाकाव्यम् – (१) कुमारसम्भवम्, (२) रघुवंशः।
(ग) गीतिकाव्यम् – (१) ऋतुसंहारः, (२) मेघदूतम्।
कुमारसम्भवम्
कुमारसम्भवन्नाम महाकाव्यं सप्तदशसर्गात्मकम्। अत्र केचित् कथयन्ति यत् कालिदासेन अष्टसर्गा एव लिखिताः। अनन्तरं स कुष्ठी सञ्जातः। अतोऽन्येन अष्टोत्तरसर्गाः लिखित इति। यत् किमपि स्यात्, कुमारेण तारकवध एवास्य काव्यस्य प्रयोजनम्। अत्र प्रथम सर्गे पार्वतीजन्मग्रहणम्, तद्यौवनवर्णनम्, समाधिनिरतस्य शिवस्य शुश्रूषां कुर्वत्याः पार्वत्याश्च वर्णनमस्ति। द्वितीये सगें तारकपीडिताः देवाः ब्रह्मलोकं गत्वा ब्रह्माणम्प्रति स्वदुःखं श्रावयन्ति। ब्रह्मणोपदिष्टः इन्द्रः समाधिनिरत शिवं सुश्रूषाव्यापृतां पार्वतीं प्रत्याक्रष्टुं कामदेवं स्मरत। तृतीये सगें कामः शिवसमाधि खण्डयति। चतुर्थे रतिविलापो वर्णितः। पञ्चमे पार्वत्याः शिवप्राप्तये अत्युग्रतरा तपश्चर्या वर्णिता। षष्ठे पार्वतीशिवयोः विवाहोपक्रमः, सप्तमे च विवाहो वर्णितः। अष्टमे सगें तयोः रतिक्रीडा वर्णिता। इत्त्थमेव उत्तरसर्गेषु कुमारस्य कार्तिकेयस्य जन्म, सेनापतिपदप्रापणं, तारकविनाशादिविषया वर्णिताः सन्ति। रामायणगतं निम्नलिखितं पद्यं पठित्वैव कालिदासेन स्वकाव्यस्य नामकरणं कृतं स्यादिति विद्वांसस्तर्कयन्ति-
“एष ते राम गङ्गाया विस्तरोऽभिहितो मया ।
कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च” ।।
Reviews
There are no reviews yet.