Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-10%

Niti Shatkam (नितिशतकम्)

45.00

Author Pt. Shri Vijay Sandkar Mishra
Publisher Chaukhambha Sanskrit Series Office
Language Sanskrit & Hindi
Edition 2022
ISBN 978-81-7080-031-5
Pages 91
Cover Paper Back
Size 14 x 4 x 22 (l x w x h)
Weight
Item Code CSSO0743
Other Dispatched in 1-3 days

 

10 in stock (can be backordered)

Compare

Description

नितिशतकम् (Niti Shatkam) भतृहरीशतकत्रयम में नितिशतकम संस्कृत हिंदी व्याख्यासहित, श्रृंङ्गार शतकम वैराग्य शतकम हिंदी व्याख्या सहित है दिकालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये। स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ।। १ ।। श्रीमत्सुखैकहेतुं सेतु’ संसारसागरोत्तरणे। अरुणं जगदाधारं ललिताकारं महो मुहुर्वन्दे ।। श्रीमद्‌गुरुवरचरणाम्भोजद्वि तयीं च सादरं नत्वा। वितनोमि नीतिशतके ‘ललिता’ख्यां मुग्धबोधिनीं व्याख्याम्।।
तत्रभवान् सर्वतन्त्र स्वतन्त्रो महायोगीश्वरो मनीषिप्रवरः पार्थिवेन्द्रः श्रीमान् भतृहरिः केनापि कारणविशेषेण संसाराद्विरक्तो लोकानां कर्तव्यं, हेयत्वसूचिकां घृणास्पदं भोगसम्पदं, शमसुखं चोपदेष्टुमिध्छन् सुभाषितत्रिशतीं नाम नीतिशृ‌ङ्गारवैराग्यवर्णनपरं पद्यमयं कञ्चित्प्रबन्धं निर्मातु प्रवृत्तः प्रथमं नीतिशतकं प्रस्तुवन् शिष्टाचारपरम्परामनुसृत्य ग्रन्थादी निर्गुणब्रह्म नमस्करात्मकं मङ्गलमाचरति-दिक्कालादिति।

अन्वयः-दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये स्वानुभूत्येकमानाय शान्ताय तेजसे नमः (अस्तु)।
व्याख्या-दिकालादीति। दिकालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये, दिशः प्राच्यादयः कालाः भूतादयः ते आदी येषां तैर्दिकालादिभिः, आदिपदेन घट-पटादिकं वस्तुजातमाकाशादिकं च गृह्यते, अनवच्छिन्ना अपरिमिता असंङ्कचिता, अनन्ता अविनाशिनी, चिदेव चिन्मात्रम् ज्ञानमयी, मूर्तिः स्वरूपं यस्य तत् तस्मै। अत्र ‘तेजसे’ इति नपुंसकलिङ्ग विशेप्यमनुसृत्य ‘चिन्मात्रमूर्तिने’ इति प्रयोगः कर्तव्य आसीत्, किन्तु महर्षिकल्पस्य श्रीमद्भतृ हरेरसु’ प्रयोगमार्थं मत्वा कवेनिरङ्कुशत्वं वा प्रकल्प्य विज्ञवरैरपशब्दोऽयमुपेक्षणीयः। अथवा, केवलस्य मूर्तिशब्दस्य भाषितपुंस्कत्वाभावेऽपि विशिष्टस्य तस्य भाषितपुंस्कत्वात् ‘तृतीयादिषु भाषितपुंस्कं पुंवद् गालवस्य’ इत्यनेन कृतं पुंवद्भावमालस्थ्य कथञ्चित् प्रयोगोऽयमुपपादनीयः। किञ्च- ‘तेजसे’ इत्यत्र ‘वेधसे’ इत्यपि पाठः स्मर्यंते।

Reviews

There are no reviews yet.

Be the first to review “Niti Shatkam (नितिशतकम्)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×