Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-14%

Vyakaran Bhaskar (व्याकरण भास्करः)

215.00

Author Dr. Brahmanand Shukla
Publisher Sharda Sanskrit Sansthan
Language Sanskrit & qHindi
Edition 2014
ISBN 978-93-81999-37-0
Pages 250
Cover Paper Back
Size 14 x 1 x 22 (l x w x h)
Weight
Item Code SSS0089
Other Dispatched in 1-3 days

 

10 in stock (can be backordered)

Compare

Description

व्याकरण भास्करः (Vyakaran Bhaskar) व्याकरणभास्करः इदानीन्तनां छात्राणाम्महते उपकाराय भवेदितिबुद्धया अनेकव्याकरणग्रन्थचिन्तनानन्तरम् अस्मिन् व्याकरणभास्करे सारल्यादरभ्य काठिन्योपेतानां विवेचनं वेविद्यते। वैयाकरणसिद्धान्तकौमुद्यादिषु आदौ “हलन्त्यम्” इति सूत्रं श्रीमता भट्टोजिदीक्षितमहोदयैः अकारि। परञ्चात्र “उपदेशेऽजनुनासिक इत्” सूत्रं बिना “हलन्त्यम्” इति सूत्रस्य ज्ञानं सरलतया न भविष्यति, अतः आदौ अत्र “उपदेशेऽजनुनासिक इत्” सूत्रं निर्धारितम् एतस्मादेव सूत्रात् “उपदेशे” इति सप्तम्यन्तस्य “इत्” इति प्रथमान्तस्य च पदस्यानुवृत्तिरायाति। अतोऽत्रादौ “उपदेशेऽजनुनासिक इत्” इति सूत्रमालेखि। तथैव वैयाकरण सिद्धान्त कौमुद्यादौ अच्सन्धिप्रकरणे “इको यणचि” इति सूत्रोदाहरणे “सुद्धय्युपास्यः” इति प्रयोगो वर्तते तत्र महत् काठिन्यमस्ति।

एतदपाकरणाय “संहितायाम्” इत्यधिकारः “एकः पूर्वपरयोः” इत्यधिकारसूत्रं तदनु च “अकः सवणें दीर्घः” इति सूत्रं व्याकरणभास्करे वर्तते। अत्र “अकः सवर्णे दीर्घः” इति सूत्रस्योदाहरणे नैव स्थानप्रयत्नयोः विवेचनमावश्यकं नैव च द्वित्वादि कल्पनं नैव च “तस्मिन्निति निर्दिष्टे पूर्वस्य” नैव च “अलोऽन्त्यस्ये” ति लोपस्य प्राप्तिः नैव च निषेधो वर्तते। अतः आदौ अतीव सरलः प्रयोगः “तव अयम्” “तवायम्’। अत्र तव इत्यस्य वकारोत्तरवर्त्यकारस्य अयम् इत्यस्य पूर्ववर्तिनः अकारस्य च स्थाने दीर्घ आकारे कृते “तवायमि” ति रूपस्य निष्पत्तिः सरलतया भवति। इत्येव व्याकरणभास्करस्य उद्देश्यं वर्तते येन छात्राः सरलतया पठन्तु पाठयन्तु च। एवमेव सर्वत्रैव अत्यन्तं सरलं सुबोधगम्यश्च वर्तते व्याकरणभास्करः। व्याकरणाध्ययनाध्यापनावसरे यत्काठिन्यमनुभूतम् श्रीशुक्लमहोदयैः तत् काठिन्यापाकरणाय व्याकरणभास्करस्य रचना कृता। दत्तावधानाध्ययनेन छात्राः स्वयमेव ज्ञास्यन्ति यदत्र वैज्ञानिकः सरलतमो विधिः वर्तते येन छात्राः स्वल्पायासेनाध्ययने प्रवृत्ताः भविष्यन्ति।

तथा स्वयमेवाधीष्यते। पुरा छात्राः अतीवायासेन अतिपरिश्रमेण कण्ठस्थं चक्रुः। परञ्श्चेदानीम् सङ्गणकयुगो वर्तते चलदूरभाषादिवैज्ञानिकोपकरणानि प्राचुर्येऽस्मिन् काले उपलभ्यन्ते। प्राचीना पद्धतिः छात्रैः न तादृश श्रद्धया स्वीक्रियते यथा पूर्वकाले स्वीकृता आसीत्। अतोऽत्र परिवर्तनं परमावश्यकमासीत्। येन नावीन्यंमन्वानाः पिपठिषवः जिज्ञासवश्च्छात्राः मनोयोगेनापठन्तु। एतादृशस्य ग्रन्थस्य महती आवश्यकता आसीत्। तामावश्यकतां परिलक्ष्य अस्य ग्रन्थस्य रचना जाता। अतोऽहं ग्रन्थकर्तारं श्रीशुक्लमहोदयं सादरं प्रणमामि। मम माता कुशलगृहणी भगवद्भक्तिपरायणा श्रीमती शकुन्तला शुक्ला सादरं प्रणम्यते यस्याः सत्प्रेरणया मया व्याकरणभास्करस्य सरला टीकाकारि। मम कनिष्ठा भगिनी श्रीमती लक्ष्मीपाण्डेय छात्राणां सुबोधाय हिन्दीभाषायां चन्द्रव्याख्यां कृतवती। अतस्तां स्नेहेन सभाजयामि। ममानुजाः भ्रातरः पं० बलभद्रशुक्लो वैयाकरणः श्रीकृष्णचन्द्रशुक्लोभियन्ता, श्रीविभुशुक्लश्च नूनमेव आर्शीवादार्हाः ये सततमुत्साहितवन्तः। मम कनिष्ठे भगिन्यौ कु० माधवीशुक्ला, कु० नीलिमाशुक्ला च आशीर्वादाहें वर्तेते। अन्ते च सर्वावतारिणं मर्यादापुरुषोत्तमं श्रीरामचन्द्रं श्रद्धया स्तौमि येन व्याकरणभास्करः छात्राणां महते उपकाराय भवेत्।

Reviews

There are no reviews yet.

Be the first to review “Vyakaran Bhaskar (व्याकरण भास्करः)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×