Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.

Chanakya Sutram (चाणक्यसूत्रम् प्रथमाध्यायमात्रम्)

15.00

Author Pt. Shri Vijay Sandkar Mishra
Publisher Chaukhambha Sanskrit Series Office
Language Sanskrit
Edition -
ISBN -
Pages 40
Cover Paper Back
Size 14 x 4 x 22 (l x w x h)
Weight
Item Code CSSO0741
Other Old and Rare Book

 

10 in stock (can be backordered)

Compare

Description

चाणक्यसूत्रम् प्रथमाध्यायमात्रम् (Chanakya Sutram) प्रस्तुतं पुस्तकमिदं कलिकातास्थानीयप्रयमपरीक्षायां पाठ्यपुस्तकत्वेन निर्धारितम्। मूलग्रन्थस्तावत्पश्वाध्यायपरिमितः, किन्तु प्रथमाध्याय एवोक्त-परीक्षायां स्थापितः। नीतिशास्त्ररहस्यविदां चूडामणिभूतो विदुषामग्रणीविद्यासमुद्र मन्थनमन्दरायमाणमतिविष्णुगुप्तो नाम श्रीचाणक्यस्तत्तच्छास्त्राण्यव-गाह्य तेभ्यश्व सारं गृहीत्वा, लघुकायान्यप्यतिगभीरविस्तृतार्थानीमानि सूत्राणि व्यरचयत्। एतानि सूत्राणि खलु विदुषां साहाय्येन विना नहि स्वल्पधियों विद्याथिनां सुबोधानि। अत एव बहूनां नीतिज्ञं मन्यानां टीकाटिप्पण्यादि-विधानेन तदर्थमाविष्कतु प्रयासा दृश्यन्तेऽत्र विषये। परन्तु तेषु तत्र-तत्र त्रुटिबाहुल्यादतिखिन्नहृदया मदीयज्येष्ठसहोदरस्थानीयाः प्राप्तसाहित्याचार्य-पदवीकाः सहृदयाः पण्डितवराः श्रीमन्तो वेतालाऽनन्तरामशास्त्रिणा इर्म जर्न कान्वित्सुगमां सरलां सुविचार्य च प्रणीतां टीको विद्याथिवर्गलाभाय बिरचयितुं प्रेरितवन्तः।

विद्योदधिपारगाणां तेपामेव शास्त्रिमहोदयानां प्रेरणया साहाय्येन चास्यैकाध्यायमात्रकायस्य ग्रन्थस्य ‘बालबोधिनी’ति टीका मया प्रणीता। एकाकिना मया न कथमप्येतस्मिन् प्रयत्ने साफल्यमवगन्तुमपार-विध्यत यदि शास्त्रिमहोदया अतिस्नेहपुरःसरं यथोचितविचारसूचनैरेतां टीको हृदयङ्गमां नाकरिष्यन्। प्रथमप्रयास एवं मामकीनोऽयं गीर्वाणवाणीमाश्रित्य कस्यचिद् ग्रन्थस्य रहस्योद्घाटने। अत एवोदारहृदयैर्मनीषिभिमर्मानुष्यक-भावसुलभदोषबाहुल्येऽत्र क्षन्तव्योऽस्मीति प्रायं ये।

अथेदानीं प्रसङ्गवशाद् ग्रन्थं ग्रन्थकारं चाधिकृत्य किन्चित्प्रस्तौमि। पश्चाध्यायपरिमिते मूलग्रन्येऽस्मिन् बहूनां नीतितत्त्वानां विमों दृश्यते। स्वीयकतंव्यप्रधानभूतं प्रजापालनरूपं धर्ममाश्रित्यैव राजा सदा वर्तितुमर्हति। प्रसङ्गोचितं कूटनीत्याश्रयणमपि प्रजापालन लक्ष्यीकृत्यैव समीचीनं राज्ञः। स्वार्थपर प्रजाहितविरोधिनं च राजानं विनापि प्रकृतयो राष्ट्र सन्चालवितुं समर्थाः।परन्तु नीतिकोविदं प्रजारक्षकं समर्थ च नृपं प्राप्य राष्ट्र क्षिप्रमेवातितरा-मुन्नति गच्छति। अत एव राष्ट्रोन्नती राज्ञ उपादेयतां प्रतीयते। प्रकृतयश्च पुनः सर्वथैव भक्तिपुरःसरं राजानमुपसेवेरन्। राजा खलु सर्वासां प्रकृतीनां पितेव रक्षकः, अतः पितेव स तासां पूज्योऽव्यस्ति । एवं नानाविधानि राज्ञः प्रकृतीनां च कर्तव्यानि निदिष्टानि ग्रन्थरत्नेऽस्मिन्।

Reviews

There are no reviews yet.

Be the first to review “Chanakya Sutram (चाणक्यसूत्रम् प्रथमाध्यायमात्रम्)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×